(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.210. अध्यायः 210
Mahabharata - Adi Parva - Chapter Topics
द्रुपदप्रश्नानन्तरं युधिष्ठिरेण स्वेषां पाण्डवत्वकथनम्॥ 1 ॥ द्रौपद्याः पञ्चपत्नीत्वे द्रुपदस्य विवादः॥ 2 ॥ व्यासागमनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-210-0x(1157)(9210)
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम्।
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः॥ 1-210-1(9211)
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम्।
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत॥ 1-210-2(9212)
वैश्यान्वा गुणसंपन्नानथ वा शूद्रयोनिजान्।
मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम्॥ 1-210-3(9213)
कृष्णाहेतोरनुप्राप्ता देवाः संदर्शनार्थिनः।
ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान्॥ 1-210-4(9214)
अपि नः संशयस्यान्ते मनः संतुष्टिमावहेत्।
अपि नो भागधेयानि शुभानि स्युः परन्तप॥ 1-210-5(9215)
इच्छया ब्रूहि तत्सत्यं सत्यं राजसु शोभते।
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु॥ 1-210-6(9216)
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम।
ध्रुवं विवाहकरणमास्थास्यामि विधानतः॥ 1-210-7(9217)
युधिष्ठिर उवाच। 1-210-8x(1158)
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते।
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम्॥ 1-210-8(9218)
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः।
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ॥ 1-210-9(9219)
आभ्यां तव सुता राजन्निर्जिता राजसंसदि।
यमौ च तत्र कुन्ती च यत्र कृष्मा व्यवस्थिता॥ 1-210-10(9220)
व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ।
पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता॥ 1-210-11(9221)
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते।
भवान्हि गुरुरस्माकं परमं च परायणम्॥ 1-210-12(9222)
वैशम्पायन उवाच। 1-210-13x(1159)
ततः स द्रुपदो राजा हर्षव्याकुललोचनः।
प्रतिवक्तुं मुदा युक्तो नाशकत्तं युधिष्ठिरम्॥ 1-210-13(9223)
यत्नेन तु स तं हर्षं सन्निगृह्य परंतपः।
अनुरूपं तदा वाचा प्रत्युवाच युधिष्ठिरम्॥ 1-210-14(9224)
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरात्।
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः॥ 1-210-15(9225)
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम्।
विगर्हयामास तदा धृतराष्ट्रं नरेश्वरम्॥ 1-210-16(9226)
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम्।
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः॥ 1-210-17(9227)
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि।
यमौ च राज्ञा संदिष्टं विविशुर्भवनं महत्॥ 1-210-18(9228)
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः।
प्रत्याश्वस्तस्ततो राजा सह पुत्रैरुवाच तम्॥ 1-210-19(9229)
गृह्णातु विधिवत्पाणिमद्यायं कुरुनन्दनः।
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम्॥ 1-210-20(9230)
वैशम्पायन उवाच। 1-210-21x(1160)
तमब्रवीत्ततो राजा धर्मात्मा च युधिष्ठिरः।
`ममापि दारसंबन्धः कार्यस्तावद्विशांपते॥ 1-210-21(9231)
तस्मात्पूर्वं मया कार्यं तद्भवाननुमन्यताम्।' 1-210-22(9232)
द्रुपद उवाच।
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम।
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश॥ 1-210-22x(1161)
युधिष्ठिर उवाच। 1-210-23x(1162)
सर्वेषां महिषी राजन्द्रौपदी नो भविष्यति।
एवं प्रव्याहृतं पूर्वं मम मात्रा विशांपते॥ 1-210-23(9233)
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः।
पार्थेन विजिता चैषा रत्नभूता सुता तव॥ 1-210-24(9234)
एष नः समयो राजँल्लब्धस्य सह भोजनम्।
न च तं हातुमिच्छामः समयं राजसत्तम॥ 1-210-25(9235)
`अक्रमेण निवेशे च धर्मलोपो महान्भवेत्।'
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति।
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करान्॥ 1-210-26(9236)
द्रुपद उवाच। 1-210-27x(1163)
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन।
नैकस्या बहवः पुंसः श्रूयन्ते पतयः क्वचित्॥ 1-210-27(9237)
`सोऽयं न लोके वेदे वा जातु धर्मः प्रशस्ते।'
लोकवेदविरुद्धं त्वं नाधर्मं धर्मविच्छुचिः।
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी॥ 1-210-28(9238)
युधिष्ठिर उवाच। 1-210-29x(1164)
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम्।
पूर्वेषामानुपूर्व्येण यातं वर्त्माऽनुयामहे॥ 1-210-29(9239)
न मे वागनृतं प्राह नाधर्मे धीयते मतिः।
एवं चैव वदत्यम्बा मम चैतन्मनोगतम्॥ 1-210-30(9240)
`आश्रमे रुद्रनिर्दिष्टाद्व्यासादेतन्मया श्रुतम्।'
एष धर्मो ध्रुवो राजंश्चरैनमविचारयन्।
मा च शङ्का तत्र ते स्यात्कथंचिदपि पार्थिव॥ 1-210-31(9241)
द्रुपद उवाच। 1-210-32x(1165)
त्वं च कुन्ती च कौन्तय धृष्टद्युम्नश्च मे सुतः।
कथयन्त्विति कर्तव्यं श्वः काल्ये करवामहे॥ 1-210-32(9242)
वैशम्पायन उवाच। 1-210-33x(1166)
ते समेत्य ततः सर्वे कथयन्ति स्म भारत।
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया॥ ॥ 1-210-33(9243)

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि दशाधिकद्विशततमोऽध्यायः॥ 210 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-210-1 ब्राह्मेण ब्राह्मणार्थणुचितेनाभ्युत्थानादिना परिग्रहेण आतिथ्येन॥ 1-210-6 इष्टापूर्तेन हेतुना। अनृतं न वक्तव्यमिति। अनृतभाषणे इष्टापूर्ते नश्येतामित्यर्थः॥ 1-210-20 क्षणं देवपूजाद्युत्सवम्॥ 1-210-24 अनिविष्टः अकृतविवाहः॥ 1-210-25 समयो नियमः॥ 1-210-26 ज्वलने ज्वलनसमीपे॥ 1-210-27 पुंसः पुमां सः॥ 1-210-29 यूयं च वयं च वयं। पूर्वेषां प्रचेतःप्रभृतीनाम्। तैर्यातं वर्त्म बहूनामेकपत्नीत्वमनुयामहे। तच्च आनुपूर्व्येणैव न त्वक्रमेण॥ दशाधिकद्विशततमोऽध्यायः॥ 210 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.